अथ सप्तश्लोकी दुर्गा
सप्तश्लोकी दुर्गा
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी।
कलौ कि कार्यसिद्धयर्थमुपायं ब्रूहियत्नतः ।
देव्युवाच-
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्।
मया तवैव स्रेहेनाप्यम्वास्तुतिः प्रकाश्यते ।।
ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः, अनुष्टुप् छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा
बलादाकृष्य मोहाय महामाया प्रयच्छति ।।१।।
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ।। २ ।।
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।।३।।
शरणागतदीनातंपरित्राणपरायणे।
सर्वस्यातिहर देवि नारायणि नमोऽस्तु ते ॥४॥
रोगानशेषानपहसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ।।६।।
सर्वाबाधाप्रशमनं त्रैलोकस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥७॥
इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णा
🙏 ज्योतिषाचार्या सुदेश शर्मा कुरुक्षेत्र हरियाणा