गणपति वन्दना
श्री गणपति वन्दना

ॐ श्री गणेशाय नमः
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थ सिद्धये ।। निर्विघ्नं कुरु में देव सर्वकार्येषु सर्वदा ।।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभः । निर्विघ्नं कुरु देव सर्वकार्येषु सर्वदा ।।
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामिविघ्ननेश्वरपादपङ्कजम्।
सर्वविघ्नविनाशाय, सर्वकल्याणहेतवे ।
पार्वतीप्रियपुत्राय श्रीगणेशाय नमो नमः ।।