श्रीसूर्यस्तवराजः
श्रीसूर्यस्तवराजः
सूर्य देव का सबसे प्रिय सूर्य देव के 21 नाम वाला श्रीसूर्यस्तवराज का प्रतिदिन पाठ करने से होती है सभी प्रकार की मनोकामनाएं पूर्ण ।
और कुष्ठ जैसे रोगों से भी छुटकारा पाया जा सकता है।
श्रीसूर्यस्तवराजः
वसिष्ठ उवाच
स्तुवंस्तत्र ततः साम्बः कृशो धमनि संततः ।
राजन् नामसहस्त्रेण सहस्त्रांशुं दिवाकरम् ।।१।।
•खिद्यमानं तु तं दृष्टवा सूर्यः कृष्णात्मजं तदा । स्वपने तु दर्शनं दत्त्वा पुनर्वचनमब्रवीत् ।। २ ।।
श्रीसूर्य उवाच साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत ।
अलं नामसहस्त्रेण पठंस्तवेवं स्तवं शुभम् ।।३।।
यानि नामानि गुह्यानि पवित्राणि शुभानि च ।
तानि से कीर्तयिष्यामि श्रुत्वा तमवधारय ।।४।।
ॐ विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमांल्लोकचक्षुग्रहश्वरः ।।५।।
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्त्रहा।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ।।६।।
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
• एकविंशतिरित्येष स्तव इष्टः सदा मम ।।७।।
शरीरारोग्यदश्चैव धनवृद्वियशस्करः ।
•स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ।।८।।
य एतेन महाबाहो द्वे संध्येऽस्तमनोदये।
स्तौति मां प्रणतो भूत्वा सर्वपापैः प्रमुच्यते ।। ९ ।।
कायिक वाचिंक चापि मानसं यच दुष्कृतम् ।
तत् सर्वमेकजाप्येन प्रणश्यति ममाग्रतः ।।१०।।
एष जप्यमच होमश्च संध्योपासनमेव च।
बलिमन्त्रो ऽर्घ्यमन्त्रश्च धूपमन्त्रस्तथैव च । । ११ ।।
अन्नप्रदाने स्नाने च प्रणिपाते प्रदक्षिणे।
पूजितो ऽयं महामन्त्रः सर्वव्याधिहरः शुभः ।।१२।।
एवमुत्तवा तु भगवान् भास्करो जगदीश्वरः। आमन्त्र्य कृष्णतनयं तत्रैवान्तरघीयत ।।१३।।
साम्बो ऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् ।
पूतात्मा नीरुज श्रीमांस्तस्माद् रोगाद् विमुक्तवान् ।।१४।।
इति साम्यपुराणे रोगपनयने श्रीसूर्यवक्रविनिर्गतः स्तवराजः स्माप्तः। (अध्याय २५१९-१५).