भवान्यष्टकम्
भवान्यष्टकम्
न तातो न माता न बन्धुनं दाता न पुत्रो न पुत्री न भूत्यो न भर्ता ।
न जाया न विद्यान वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥१॥
भवाब्धावपारे महादुःखभीरुः पपात प्रकामी प्रलोभी प्रमत्तः ।कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं ।।२।।
न जानामि दानं न च ध्यानयोग
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
म जानामि पूजां न च न्यासयोगम् । गतिस्त्वं ।।३।।
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्ति व्रतं वापि मातर्गतिस्त्वं ॥४॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम्। गतिस्त्वं ॥५॥
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीधेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहंशरण्ये । गतिस्त्वं ।।६।।
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं ।।७।।
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाडयवक्त्रः
विपत्तौ प्रविष्टः प्रणष्टः सदाहं गतिस्त्वं ।।८।।
इति श्रीमदच्छङ्कराचार्यकृतं भवान्यष्टकं सम्पूर्णम् ।