अथ देव्याः कवचम्

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः,चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः । 

ॐ नमश्चण्डिकायै ।।
मार्कण्डेय उवाच
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । 
यत्र कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ।।१।।
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ।।२।।
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ।।३।।
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ।।४।।
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ।।५।।
अग्निता दहामानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ।।६।।
न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥ 
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ।।८।।
प्रेतसंस्था तु चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमारूदा वैष्णवी गरुडासना ।। ९ ।।
माहेश्वरी वृषारूढा कौमारी शिखिवाहना। 
लक्ष्मी: पद्मासना देवी पद्महस्ता हरिप्रिया ।।१०।। 
श्वेतरूपधरा देवी ईश्वरी वृषवाहना। 
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ।।११।। 
इत्येता मातरः सर्वा सर्वयोगसमन्विताः। नानाभरणशोभाढया नानारत्नोपशोभिताः ।।१२।। 
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः। 
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।।१३।। 
खेटकं तोमरं चैव परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ।।१४।। 
दैत्यानां देहनाशाय भक्तानामभये च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ।। १५ ।। 
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे। 
महाबले महोत्साहे महाभयविनाशिनि ।।१६।। 
त्राहिमां देवि दुष्प्रेक्ष्ये शत्रुणां भयवर्धिनि । 
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।।१७।। 
दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी । प्रतीच्या वारुणी रक्षेद् वायव्यां मृगवाहिनी ।।१८।। 
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । 
ऊर्ध्वं ब्रह्माणि में रक्षेदधस्ताद् वैष्णवी तथा ।। १९ ।। 
एवं दश दिशो रक्षेच्चामुण्डा शववाहना। 
जय मे चाग्रतः पातु विजया पातु पृष्ठतः ।। २० ।।
अजिता वामपा वे तु दक्षिणे चापराजिता । शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।।२१।।
मालाधरी ललाटे च ध्रुवौ रक्षेद यशस्विनी। 
त्रिनेत्रा च ध्रुवोर्मर्ध्य यमघण्टा च नासिके ।।२२।। 
खडंगिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारिवासिनी। 
कपोलौ कालिका रक्षेत्कर्णमूले तुशांकरी ।। २३ ।। 
नासिकायां सुगन्धा च उत्तरोष्ठेच चर्चिका । 
अधरे चामृतकला जिह्वायां च सरस्वती ।। २४ ।। 
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका। घण्टिकां चित्रघण्टा च महामाया च तालुके ।। २५ ।। 
कामाक्षी चिबुकं रक्षेद वाचं मे सर्वमङ्गला। 
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ।। २६ ।। 
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद् बाहूमे वज्रधारिणी।।२७।। 
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाच्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥२८॥ 
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी। 
हृदये ललिता देवी उदरे शूलधारिणी ।।२९ ।। 
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा । 
पूतना कामिका में गुदे महिषवाहिनी ।।३०।। 
कटयां भगवती रक्षेज्जानुनी विन्ध्यवासिनी। 
जंड्घे महाबला रक्षेत्सर्वकामप्रदायिनी ।।३१।।
 गुल्फयोर्नारसिंही च पादपृष्ठेतु तैजसी । 
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ।। ३२ ।। 
नखान् दंष्ट्राकराली च केशां चैवोर्ध्वकशिनी । रोमकूपेष कौबेरी त्वचं वागीश्वरी तथा।।३३।।
रक्तमजावसामांसान्यस्थिमेदांसि पार्वती । 
अत्राणि पित्तं च मुकुटेश्वरी॥ ३४।।
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥३५॥ 
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा। 
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥३६॥ 
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ।।३७|| 
रसे रूपे च गन्ये च शब्दे स्पर्शे च योगिनी। 
सत्यं रजस्तमवैवरक्षेत्रारायणी सदा॥३८ ।। 
आयु रक्षतु वाराही धर्म रक्षतु वैष्णवी। 
यशः कीर्ति च लक्ष्मी च धन विद्यां च चक्रिणी।।३९ ।। 
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।
पुत्रान्रक्षेन्महालक्ष्मी भर्या रक्षतु भैरवी ॥४०॥ 
पन्थानं सुपथा रक्षेन्मार्ग क्षेमकरी तथा राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥४१॥
रक्षाहीनं तु यस्थानं वर्जितं कवचेन तू । 
तत्पर्य रक्ष मे देवि जयन्ती पापनाशिनी ॥४२॥
पदमेकं न गच्छेतु यदीच्छेच्छुभमात्मनः। कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।।४३।। 
तत्र तत्रार्थलाभश्च विजय: सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।।४४ ।।
निर्भया जायते मर्त्यः संग्रामेष्वपराजितः ।
त्रयोक्ले तु भवेत्पूज्यः कवचेनावृतः पुमान्।।४५।।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् । 
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः। ॥४३ ।। 
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः । 
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ।।४७।। 
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः । 
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।।४८ ।। 
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले। 
भूचरा: खेचराश्चैव जलजा चोपदेशिकाः ।।४९ ।।  
सहजा कुलजा माला डाकिनी शाकिनी तथा । अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।।५।। 
ग्रहभूतपिशाचाच यक्षगन्धर्वराक्षसाः । ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।।५१ ।। 
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते । मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ।।५२ ।। 
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले । जपेत्सप्तशर्ती चण्डीं कृत्वा तु कवचं पुरा । ।५३ ।। 
यावद्भूमण्डलं धत्ते सशैलवनकाननम्। 
तावत्तिष्ठाति मेदिन्यां संततिः पुत्रपौत्रिकी ।।५४ ।। 
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् । 
प्राप्रोति पुरुषो नित्यं महामायाप्रसादतः ।।५५।। 
लभते परमं रूपं शिवेन सहमोदते ।। ॐ।।५६ ।।
इति देव्याः कवचं सम्पूर्णम्
🙏 ज्योतिषाचार्या सुदेश शर्मा कुरुक्षेत्र हरियाणा

By astrologersudeshsharma

Astrologer Profile Jyotish Acharya Sudesh Sharma Vedic Astrology, tarot cards, numerology, prashana, vastu, face reading, matchmaking, palmistry, Mobile Astrology. About Me I am Astrologer Sudesh Sharma from kurukshetra Haryana. I am a deploma holder in computer science and a certified astrologer. I completed my jyotish visarad, jyotish shiromani, jyotish pragyacharya and devgyashree from bhartia vedic jyotish sansthan Varanasi, master degree from kuk University kurukshetra, Ignou and LL.B Dr.bhimrao Ambedkar law university Jaipur. I am Vedic astrologer, palmist, tarot reader, numerologist, face reader, relationship counselor, vastu, prsansastra having more than 15 years experience in the field of occult science. I am a firm believer in the concept of karma and I trust that while there is no particular way to alter your fate completely but there definitely are remedies to ease the consequences. my remedies are built by me trying to imagine myself in people's shoes and understanding what will work for them perfectly. Consult Now :- Contact us: 82219 31074

Leave a Reply

Your email address will not be published. Required fields are marked *