ऋण मोचन मंगल स्तोत्रम्
ऋण मोचन मंगल स्तोत्रम्
!! श्रीगणेशाय नमः ।।
स्थिरासनो महाकायः सर्वकष्टनिरोधकः ।।१।।
लोहितो लोहिताक्षश्च सामगानां कृपाकरः।। धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥ २॥
अङ्गारको यमश्चैव सर्व-रोगापहारकः ।।
वृष्टे: कर्ताऽपहर्ता च सर्वकामफलप्रदः ।।३।।
एतानि कुजनामानि नित्यं यः श्रद्धया पठेत ।।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ।।४।।
धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् ।।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ।।५।।
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः ।।
नतेषां भौमजा पीडा स्वल्पाऽपिभवति क्वचित् ॥६॥
अङ्गारक महाभाग भगवन्भक्तत्सल।।
त्वां नमामि ममाशेषमृणमाशु विनाशय ।।७।।
ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः ।।
भयक्लेशमनस्तापाः नश्यन्तु मम सर्वदा ।।८।।
अतिवक्र दुराराध्य भोगभुक्तिजितात्मनः ।।
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ।।९।।
विरिंचि-शिव-विष्णूनां मनुष्याणां तु का कथा ।।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ।।१०।।
पुत्रान्देहि धनं देहि त्वामस्मि शरण गतः ।।
ऋणदारिद्रयदुःखेन शत्रुणां च भयातुरः ।।११।।
एभिद्वांदशभिः श्लोकैर्यः स्तौति च धरासुतम् ।।
महती श्रियमाप्नोति ह्यपरो युवा ।।१२।।
इति श्रीस्कन्दपुराणे मार्गवप्रोक्तं ऋण मोचकमंगल स्तोत्रम्
🙏 ज्योतिषाचार्या सुदेश शर्मा कुरुक्षेत्र हरियाणा फेसबुक पेज