आनन्दलहरी

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमचनः पञ्चभिरपि। 
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ।।१।। 
घृतक्षीरद्राक्षामघुमधुरिमा कैरपि पदै-
विंशिष्यानाख्येयो भवति रसनामात्रविषयः । 
तथा ते सौन्दर्य परमशिवद्ङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ।।२।।
मुखे ते ताम्बूलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता। स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरी नगपतिकिशोरीमवितरम् ।।३।।
विराजन्मन्दारदुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गीरुचिरगतिभङ्गी भगवती
सती शम्भोरम्भोरुहचदुलक्षुर्विजयते ।।४।। 
नवीनार्कभ्राजन्मणिकनकभूषापरिकरै
वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । 
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ।।५।। 
हिमाद्रेः संभूता सुललितकरैः पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरता रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ।।६।।
सपर्णामाकीणां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति । अपर्णका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७॥ 
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाधिकमले। त्यमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रहामहिषी ।।८।। 
प्रभूता भक्तिस्ते यदपि न ममालोलमनस
स्त्वया तु श्रीमत्या सदयमवलोक्यो ऽहमथुना । पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ।। ९ ।। 
कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते । 
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ।।१०।।
महान्तं विश्वासं तव चरणपङ्केरुहयुगे
निघायान्यन्नौवाश्रितमिहमया दैवतमुमे । 
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ।।११।। 
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ।। १२ ।
त्वदन्यस्मादिच्छाविषयफललाभे न नियम
स्त्वमर्थानामिच्छाधिकमपि समर्था वितरणे।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन स्त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ।।१३।।
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल त्वदाकारं चञ्चच्छशघरकलासौधशिखरम्।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवार विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ।।१४।। 
निवास: कैलासे विधिशतमखाद्याः स्तुतिकरा:
कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । 
महेशः प्राणेशस्तदवनिधराधीशतनये
नते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ।।१५।। 
वृषो वृद्धो यानं विषमशानमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवाहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैवं स्मररिपो
यंदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ।।१६।। 
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः । 
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये ।।१७।। 
त्वदीयं सौन्दर्य निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये । तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ।।१८। 
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसण प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः 
समाधत्ते सृष्टिं विबुधपुरपरुहदशाम् ।।१९।। 
वसन्ते सानन्दे कुसुमितलाभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे। 
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ।।२०।। 
इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा

By astrologersudeshsharma

Astrologer Profile Jyotish Acharya Sudesh Sharma Vedic Astrology, tarot cards, numerology, prashana, vastu, face reading, matchmaking, palmistry, Mobile Astrology. About Me I am Astrologer Sudesh Sharma from kurukshetra Haryana. I am a deploma holder in computer science and a certified astrologer. I completed my jyotish visarad, jyotish shiromani, jyotish pragyacharya and devgyashree from bhartia vedic jyotish sansthan Varanasi, master degree from kuk University kurukshetra, Ignou and LL.B Dr.bhimrao Ambedkar law university Jaipur. I am Vedic astrologer, palmist, tarot reader, numerologist, face reader, relationship counselor, vastu, prsansastra having more than 15 years experience in the field of occult science. I am a firm believer in the concept of karma and I trust that while there is no particular way to alter your fate completely but there definitely are remedies to ease the consequences. my remedies are built by me trying to imagine myself in people's shoes and understanding what will work for them perfectly. Consult Now :- Contact us: 82219 31074

Leave a Reply

Your email address will not be published. Required fields are marked *